Home / PYQs / Mains Sanskrit Compulsory Paper (Qualifying) UPSC Mains Sanskrit Compulsory Paper (Qualifying) previous-year questions 9 Mains Sanskrit Compulsory Paper (Qualifying) questions from 2026 to 2026, with the official answer where UPSC has published one, an explanation or answer outline, and the news stories that connect to each. Every question is checked against the published paper.
2026 2026 · Sanskrit Compulsory Paper (Qualifying) · 100 marks Mains
निम्नलिखितेषु विषयेषु कमप्येकं विषयमवलम्ब्य षट्शतशब्दैः (600 परिमितशब्दैः) निबन्धो लेखनीयः –
(a) भारतबोधस्य अवधारणा अस्माकं भाविकालश्च
2026 · Sanskrit Compulsory Paper (Qualifying) · 100 marks Mains
निम्नलिखितेषु विषयेषु कमप्येकं विषयमवलम्ब्य षट्शतशब्दैः (600 परिमितशब्दैः) निबन्धो लेखनीयः –
(b) अङ्कीययुगे जनानां कर्तव्यानि
2026 · Sanskrit Compulsory Paper (Qualifying) · 100 marks Mains
निम्नलिखितेषु विषयेषु कमप्येकं विषयमवलम्ब्य षट्शतशब्दैः (600 परिमितशब्दैः) निबन्धो लेखनीयः –
(c) भारते अन्तरिक्षानुसन्धानं मंगलयानञ्च
2026 · Sanskrit Compulsory Paper (Qualifying) · 100 marks Mains
निम्नलिखितेषु विषयेषु कमप्येकं विषयमवलम्ब्य षट्शतशब्दैः (600 परिमितशब्दैः) निबन्धो लेखनीयः –
(d) स्वास्थ्यसेवाया उपलब्धता गुणवत्ता च
2026 · Sanskrit Compulsory Paper (Qualifying) · 60 marks Mains
अधोलिखितं गद्यांशं सावधानं पठित्वा तदनुसारम् अधः प्रदत्तानां प्रश्नानामुत्तराणि स्पष्टतया उत्तर समासतश्च शुद्धगिरा दीयन्ताम् :
दुःखवर्गे यत्स्थानं भयस्य भवति तदेव स्थानम् आनन्दवर्गे उत्साहस्य भवति । यस्मिन् कर्मणि कस्यापि कष्टस्य हानेर्वा सहनस्य साहसः अपेक्षितो भवति, तानि कष्टानि सर्वाणि उत्कण्ठापूर्णम् आनन्द-उत्साहत्वं भजते । एवं कष्टानां हानीनां वा भेदानुसारेण एव उत्साहानामपि भेदाः जायन्ते । साहित्य-मीमांसकाः एतद्दृष्ट्या युद्धवीर-दानवीर-दयावीराः इति भेदाः परिकल्पितवन्तः । एतेषु प्राचीनतमा प्रधानतमा च युद्धवीरता एव । यस्याम् जनः आघातं पीडां मृत्युं वापि न गणयति । अस्या एव युद्धवीरतायाः प्रयोजनम् प्राचीनकालादेव प्रवहमाना इति दृश्यते । यत्र साहसस्य प्रयत्नस्य च चरमोत्कर्षः पूर्णतया दृश्यते । परन्तु केवलं कष्टानां पीडानां वा सहनशीलत्वे एव उत्साहस्य स्वरूपं स्फुरितं न भवति । वस्तुतः तेन सह आनन्दपूर्ण-प्रयत्नस्य तथा उत्कण्ठाया वा योगः अपेक्षितः । अचेतनो न भूत्वा अपि बृहत्-विष्फोटकस्य कर्तनस्य सहन सामर्थ्यं साहस एव उच्यते न पुनरुत्साहः । एवमेव पुनः नीरवतया हस्तपादं नोत्क्षिप्य घोर-प्रहार-सहन-सामर्थ्यं साहस एव पुनः तीक्ष्णतरः प्रहारः सहनेन स्वस्थाने सुदृढरूपेण अवस्थानम् अपलायनञ्च धीरता-पदेन उच्यते । एतादृशः उत्साहे अन्तर्भवतः यदा साहसः एतादृशी धीरता च तदैव साहसी धीरो वा जनो तानि, दुष्कराणि कठोराणि कर्माणि सानन्दं कुर्वन् आस्ते । यतः तदर्थं अनेन जनेन प्रहाराः सहन्ते । अयमेव सारांशः अस्य आनन्दपूर्ण-प्रयत्ने अथवा तस्य उत्कण्ठायामेव उत्साहस्य दर्शनं भवति, न तु केवलं कष्टसहनस्य निश्चेष्टस्य-साहसे । यतः धैर्यस्य साहसस्य च द्वयोरेव उत्साह-व्यापारे संचरणं भवति ।
दानवीरस्य अर्थः त्यागः साहसो वा अर्थात् तस्य कारणरूपे कष्टस्य काठिन्यस्य वा सहन-साम्यर्थम् अन्तर्निगूढं भवति । दानवीरता तदेव सार्थकतां प्राप्नोति यदा दानकारणात् एव दाता स्वजीवन-निर्वाहार्थम् एव किमपि कष्टं काठिन्यं वा अप्रतिरोध्यम् इव दृश्यते । ऐतेषां कष्टानां काठिन्यानां वा परिणामः सम्भावना वा यावद् अधिकं भवति, दानवीरता अपि तावती वर्धिता भवति इति मन्यते, परन्तु अस्य अर्थत्यागस्य साहसे यावत् पूर्णतत्परता तथा आनन्दचिह्नानि च न दृश्यन्ते तावत् उत्साहस्य स्वरूपं यथार्थतया न प्राप्यते ।
संसारेऽस्मिन् युद्धव्यतिरिक्तानि अन्यानि कानिचित् विकटाणि कर्माणि भवन्ति, येषां निर्वाहकाले घोरं शारीरिकं कष्टं सह्यते । किञ्च तत्र प्राणहानेरपि सम्भावना भवति । अनुसन्धानार्थं तुषार-मण्डितानाम् अभ्रंलेहिनाम् अगम्यानां पर्वतानामारोहणं, सुविस्तृते दुस्तरे बालूमयमरुस्थले पर्यटनम् अज्ञाते घनघोरवनस्थले क्रूरबर्बरजातिमध्ये अवस्थानम् इत्यादिकं कर्मजातं पूर्णतया वीरतया पराक्रमस्य च निदर्शनम् एतादृक्षु कर्मसु यद्-आनन्दपूर्णतत्परतया जनानां सुखेन प्रवर्तनं दृश्यते तदपि उत्साह एव इति न कोऽपि सन्देहः ।
(a) उत्साहे साहसस्य भूमिकां स्पष्टयत ।
(b) धीरतायाः क एव अभिप्रायः ?
(c) उत्साहस्य सम्यक्दर्शनं कथं भवति ?
(d) आनन्दपूर्ण-तत्परतायाः उत्साहेन सह अन्तःसम्बन्धं प्रतिपादयत ।
(e) दाता दानकारणात् किं किं सहते ?
2026 · Sanskrit Compulsory Paper (Qualifying) · 60 marks Mains
अधोवर्तिगद्यांशस्य संक्षेपो मूलभागस्य तृतीयांशपरिमितः स्वशब्दैः लेख्यः । शीर्षको न प्रदेयः । संक्षेपो स्वशब्दैः लेख्यः ।
उत्तम-श्रोतृत्वं सर्वेषु महत्त्वपूर्णेषु आकर्षकेषु जीवन-कौशलेषु अन्यतमः गुणः । तथापि अस्मासु स्वल्पा एव जनाः श्रौतुं जानन्ति । अस्य कारणं वयं दुर्जना एव इति न, अपितु न कोऽपि अस्मान् श्रवणयोग्यतां न अशिक्षयत् । वस्तुतः एतत् सत्यमेव अत्यल्पाः एव जनाः ये अस्माकं वक्तव्यं मनोयोगेन श्रुतवन्तः । परिणामस्वरूपं वयं सामाजिक-जीवने श्रवणस्य अपेक्षया भाषणमोहग्रस्ता भवामः । वयम् अपरेण सह मेलने यथा व्याकुला भवामः परन्तु तेषां वाक्श्रवणेन न तथा । अनेन क्रमशः मित्रता सामाजिकस्वार्थे एव परिणमति । एकः उत्तमः श्रोता कानि उत्तमानि कर्मणि करोति येन तेन सह कालयापनं सुखदं भवति । कदाचित् वयम् अस्माकं कर्मविषये चिन्ताग्रस्ता भवामः । कदापि वा अस्माकं कर्मक्षेत्रे महत्त्वप्राप्तिकामाः इति हेतोः अपि चिन्ताग्रस्ता भवामः । कदापि विनिश्चेतुं शक्या वयम् अस्माभिः कीदृशं कर्मकरणं यथोचितं भवेद् नेति कदापि वा वयं संशयचिता भवामः । अपि कोऽपि सम्बन्धो भयंकर-अवस्थायां विधूर्णित एव तिष्ठति न वा । वयं कदापि वा कस्यापि वाक्यप्रयोगे अथवा वक्तव्यविषये चिन्तिता भवामः अथवा जीवने कदापि निराशाया अनुभवो अपि भवितुमर्हति, वस्तुतः वयं सम्यक् रूपेण न जानीमः यत् समस्या मूलतः कीदृशी एव, अथवा मन्यामहे केन हेतुना कस्यापि विषये अत्यधिका उत्साहिता भवामः अथवा ओजोद्दीप्ता भवामः, परन्तु तस्य उत्साहस्य ओजस्विताया च कारणानि अस्मत् कृते न स्पष्टानि भवन्ति ।
वस्तुतः अयं कश्चन अन्योऽपि विषयः चिन्तनीयः यद् एकः उत्तमः श्रोता मन्यते यद् आदर्शरूपतया अपरेण सह वाक्यालापः अस्मान् चिन्ताग्रस्तताया उत्तेजनायाश्च चित्तं मोचयन् एकं बहुव्यापकायां शान्तावस्थायां च परिणमयति । परस्परं संमिल्य वार्तालापैः च वयं जानीमः जीवनयापने मया किं नु हृतं किं वा सञ्चितम् इति । अतः सम्भाषणे स्फुटतां प्रति वाञ्छा अथ च आवश्यकतां प्रति जागरूकता न भवति । उत्तम-श्रोतृणामाभाववशात् अस्य परिणामोऽयं भवति यत् जनाः विषयविश्लेषणं विहाय स्वीयमते दृढतया एव तिष्ठन्ति । ते स्वकीयां चिन्ताम्, उत्साहं, नैराश्यम् आशां च बारम्बारं भिन्न-भिन्न-रूपेण प्रकाशयन्ति । प्रत्यालापी शृणोति, परन्तु तान् गूढरूपेण अवबोधने साहाय्यं न करोति । उत्तमः श्रोता सम्भाषणस्य सूक्ष्मयुक्तिजालम् आश्रित्य स्वकीयां स्थितिं परिवर्तयति ।
यदा अन्यः वदति तदा सः तेन सह पूर्णरूपेण संयुक्तो भवति । स वक्त्रे अल्पम् अल्पं प्रोत्साहनं प्रयच्छति, यथा सम्यक्-अनुभूतिप्रकाशकं वाक्यं तथा “आह्” इति उत्साहवर्धकं संकेतं च ददाति, पुनरपि रूचिपूर्णां राजनीतिकजिज्ञासां तथा एवं स तं स्वकीय-भावनानां गूढार्थप्रापणार्थं प्रेरयति । सः श्रोता सोत्साहं कथयति – “मह्यं विषयेऽस्मिन् अधिकं ज्ञापय...” इति “यदा भवान् एवमाह तदाहं मन्त्रमुग्धः अभवम्”, “भवान् किं मन्यते, कथमेवम् अभवत् ?”, “भवान् तदा किम् अनुभूतवान् ?” इत्यादि । एकः उत्तमः श्रोता जानाति यद् अपरेण सह सम्भाषणकाले अस्पष्टता स्वाभाविकी भवति, एतदर्थं स श्रोता वक्त्रा सह न हि आलोचनां करोति, न अधैर्यं च भवति । स श्रोता मन्यते यत् अस्पष्टतया एका सार्वभौमिकी स्थितिरस्ति । पुनः मनसः प्रबला वेदना अस्ति, यस्य निवारणार्थम् एकस्य सन्मित्रस्य महत्प्रयोजनम् अस्ति । अत्र वयं बहुधा कस्यापि अनुभवस्य समीपे भ्राम्यमाना भवामः, परन्तु तस्य मूलकारणं न प्राप्नुमः । अतः एकः उत्तमः श्रोता अस्मान् सविस्तारं वाचने अथ भाषणस्य गभीरतायाः प्रापणे च अग्रे गमनार्थं प्रेरयति । वयं सम्भाषणकाले वक्तुः मन्त्रणादानं व्यतिरिच्य ‘अग्रेसरो भव’ शब्दद्वयस्य वाञ्छां कुर्मः । सम्भाषणकाले वयं भ्रातुः सहोदरायाश्च उल्लेखं कुर्मः, ते श्रोतारश्च पुनः तदतिरिक्तं विषयजातं पृच्छन्ति यथा तस्य बाल्यकाले भ्रातृभिः सह तस्य सम्बन्धः कथमासीत्, परवर्तिनि काले तेषां सम्बन्धे परिवर्तनम् आगतं न वेति । अनेन सह श्रोता बौद्धुमिच्छति यत् अस्माकं चिन्तानाम् अथवा उत्साहानां मूलं कुत्र अस्ति ? ते पृच्छन्ति – “मया प्रयुक्तं वचनं कथं भवन्तं एतादृशं पीडितम् अकरोत्?” अथवा “मदुक्तं वचनं कथं भवते एतादृक् महत्त्वपूर्णं भवति?” तेन हि श्रोता अस्माभिः पूर्वकृतं सम्भाषणमपि सम्यक् स्मरति । कदाचित् ते श्रोतारः अस्माभिः प्राक्तनी उक्तिः पुनरुचार्य यथावत् ज्ञापयन्ति । अस्मान् अनुभावयन्ति च वस्तुतः कदाचित् अस्माभिः सह वक्तव्यानां गभीरतायां गन्तुं चेष्टन्ते । अस्पष्टतया सम्भाषणं भयानकरूपेण सरलं भवति । वयं बहुधा एव कथयामो यत् किमपि वस्तु सुन्दरम् अथवा किमपि भयानकं किमपि सुखदं अथवा उद्वेजकं भवति, परन्तु वयं न चेष्टामहे ज्ञातुं यद् अस्माकम् एतादृशः अनुभवः कथं भवति । एकः उत्तमः श्रोता एतेषु मर्मस्पर्शिषु वाक्येषु व्यापकं तथा मैत्रीपूर्णं संशयम् आकलयति पुनः मनसः गभीरे अन्तर्लीनाः गम्भीराः भावनाः च अवगन्तुं शाश्वत् चेष्टन्ते ।
(549 शब्द)
2026 · Sanskrit Compulsory Paper (Qualifying) · 20 marks Mains
अधोलिखितगद्यांशस्य आंग्लभाषया अनुवादः करणीयः –
भारतीयनाविकाः पोतयानसंचालने स्वकीय-कौशलगरिम्णा प्राचीनकालादेव जगति प्रसिद्धाः आसन् । अद्यतः पञ्चसहस्राणि वर्षाणि प्राक् भारतीयनाविकाः समुद्रे नावसंचालनम् आरब्धवन्तः । तदा समुद्रयात्रायां प्रयुज्यमानाः स्वल्पाः केचनयन्त्राः आसन् । अद्यत्वे वर्तमानकालीनि संस्कृतानि समुन्नतानि उत्कृष्टानि यन्त्रोपकरणानि तदा न उपलब्धानि आसन् । परन्तु प्राचीनकालीकानां नाविकानां ज्ञानेन्द्रियाणि मन्ये अतीव तेजोद्दीप्तानि आसन् । तेषां वातावरणस्य ज्ञानं सम्यक् आसीत् । ते ग्रह-नक्षत्राणां गमनविषये अपि निपुणाः आसन् । वातप्रवाहस्य ज्ञानमपि सम्यक् आसीत्, ते समुद्रजलानां वर्णान् दृष्ट्वा समुद्राणां गभीरतां प्रकाशयितुं समर्था आसन् । ते सामुद्रिकं जन्तुजातं तेषां गमनागमनं च संलक्ष्य समुद्रात् कियद्दूरे स्थलभागः अस्ति, स स्थलभागस्य कः देशः, सः स्थलभागः कीदृशः, तदपि वक्तुं समर्थाः आसन् । पुराकाले भारते न कोऽपि समुद्रविज्ञानविद्यालयः आसीत् । अत एव यदेव प्रशिक्षणं ते प्राप्तवन्तः तत् केवलं अनुभवानां पाठशालायां परीक्षणेन तथा पुनः “प्रमाद-चेष्टा” (error-try) इति मार्गेण एव । कदाचित् दुर्घटनादिकमपि संघटितम् आसीत् । अपि च तेषां साहसः आत्मविश्वासश्च तान् पुनः-पुनः समुद्रयात्रायां गन्तुं प्रेरितवन्तः । यद् बलेन पराक्रान्ताः ते नाविकाः पश्चिमे अरबसागरम् उत्तीर्य अफ्रीकादेशस्य पूर्वोपकुले तथा बगोपसागरं उत्तीर्य पूर्वस्यां दिशि सुदूरे तथा इण्डोनेशिया-कम्बोडिया-उन्नाम-बोर्नियो-सेलीबीज-इत्यादीन् देशान् च गतवन्तः । समुद्रविद्याया प्रशिक्षणं भारतवर्षे 1920 तमे ख्रिष्ट्याब्दस्य प्रारम्भिकवर्षेषु आरब्धम् अभवत् ।
स्वाधीनतायाः पश्चात् भारतवर्षे परिवर्तनस्य सुखदवातप्रवाहः प्रारब्ध अभवत् । भारतस्य गौरवशाली पोतयानगमनागमनपरम्परायाः यः सूर्यः कियत्-शताब्दीपूर्वे अस्तंगतः एव अभवत् । सः पुनश्च उदितः सन् स्वप्रभाभिः समुद्भासितः संजातः । ततः प्रभृतिः इदानीम् अपि भारतीय-पोतगमनागमनव्यवस्था सम्यक् सर्वदिक्षुः सुष्ठु प्रचलिता अस्ति ।
2026 · Sanskrit Compulsory Paper (Qualifying) · 20 marks Mains
अधस्तनगद्यांशस्य संस्कृतभाषानुवादः करणीयः –
Orientation for entrepreneurship has to start right from the schools. In schools, teachers need to highlight the role of entrepreneurship in national development. During college, students must be exposed to business development opportunities and must be trained towards the creation of new enterprises. Parents should encourage their children to take up new ventures after their education. We should cultivate a mindset that ‘Idea is wealth’.
The government must create a facilitating environment for the provision of venture capital for innovative ideas without collateral security. Universities and engineering and management institutions should work with banks and other funding agencies towards simplifying procedures for setting up businesses and working with entrepreneurs till the project becomes self-sustaining and viable. Procedures in government should facilitate the spotting and recognition of new Indian talent in entrepreneurship by creating a level playing field for healthy competition. Citizens who can afford it should turn themselves into angel investors or start venture capital organizations to fund such new ventures. Big and small industries need to have an open mind in order to encourage and partner with young entrepreneurs.
2026 · Sanskrit Compulsory Paper (Qualifying) · 40 marks Mains
(a) अधोलिखितानां स्वरचितेषु वाक्येषु प्रयोगः कार्यः –
(i) उपरि
(ii) श्वः
(iii) कदा
(iv) सार्धम्
(v) चेत्
(b) पदसाधनं क्रियताम् –
(i) गुणिन् + षष्ठी, बहुवचनम्
(ii) लक्ष्मी + प्रथमा, एकवचनम्
(iii) विपद् + सप्तमी, एकवचनम्
(iv) अम्बु + द्वितीया, द्विवचनम्
(v) साधु + चतुर्थी, एकवचनम्
(vi) कृ + लङ्, प्रथमपुरुषे, बहुवचनम्
(vii) स्था + लोट्, उत्तमपुरुषे, एकवचनम्
(viii) सेव् + लट्, मध्यमपुरुषे, द्विवचनम्
(ix) वद् + लृट्, उत्तमपुरुषे, बहुवचनम्
(x) हस् + विधिलिङ्, प्रथमपुरुषे, बहुवचनम्
(c) समासो विधेयः समासनाम च लेखनीयम् :
(i) मक्षिकानाम् अभावः
(ii) घन इव श्यामः
(iii) खञ्जश्च कुब्जश्चेति
(iv) मृग अङ्के यस्य सः
(v) गृहे तिष्ठति यः सः
(d) अधोलिखितानि वाक्यानि शुद्धीकरणीयानि :
(i) पिता प्राते भ्रमणं करोति ।
(ii) स अस्मात् शतं धारयति ।
(iii) शिशुः शय्यायाम् अधिशेते ।
(iv) बालिका वृक्षे पुष्पाणि चिनोति ।
(v) बालकः भगवानं प्रणमति ।